दुर्गा सप्तशती चण्डी

संस्कृत

देवीसूक्तम्

किताब सामग्री

॥ अथ देवीसूक्तम् ॥ ॐ अहं रुद्रेभिर्वसुभिश्चराम्यह- मादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यह- मिन्द्राग्नी अहमश्विनोभा ॥ १॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ २॥ अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ ३॥ मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं श‍ृणोत्युक्तम् । अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥ अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ ६॥ अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वो- तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥ अहमेव वात इव प्र वाम्या- रभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिव्यै- तावती महिना सं बभूव ॥ ८॥ ॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥ ॥ ॐ तत् सत् ॐ ॥