सरस्वती मया दृष्टा
सरस्वतीस्ताेत्रम्
पढ्ने पृष्ठहरू तयार हुँदैछन्…
सरस्वती मया दृष्टा वीणापुस्तकधारिणी
हंसवाहनसंयुक्ता विद्यादानं करोतु मे।।
प्रथमं भारती नाम द्वितीयञ्च सरस्वती
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी।।
पञ्चमन्तु जगन्माता षष्टं वागीश्वरी तथा
सप्तमं चैव कौमारी चाष्टमं वरदायिनी।।
नवमं बुद्धिदात्री च दशमं ब्रह्मचारिणी
एकादशं चन्द्रघण्टा द्वादशं भुवनेश्वरी।।
एतद्द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः
जिह्वाग्रे वसते तस्य ब्रह्मरूपा सरस्वती।।