श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे
नमस्तेभ्यश्च नित्यशः ।
सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ॥ २८०॥
सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान् ।
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ २८१॥
त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः ।
त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ २८२॥
अथवा मायया देव मोहितः सूक्ष्मया त्वया ।
एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः ॥ २८३॥
प्रसीद मम देवेश त्वमेव शरणं मम ।
त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः ॥ २८४॥
स्तुत्वैवं स महादेवं विरराम प्रजापतिः ।
भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ २८५॥
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत ।
बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि ॥ २८६॥
अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः ।
कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम् ॥ २८७॥
दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति ।
अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया ॥ २८८॥
भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत ।
प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः शृणु ॥ २८९॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ २९०॥
वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः ।
तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ २९१॥
अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्म्मितम् ।
वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम् ॥ २९२॥
श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम् ।
सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम् ।
उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ॥ २९३॥
अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम् ।
तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ॥ २९४॥
एवमुक्त्वा महादेवः सपत्नीकः सहानुगः ।
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥ २९५॥
अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः ।
ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा ।
शान्त्यर्थं सर्वभूतानां शृणुध्वं तत्र वै द्विजाः ॥ २९६॥
शीर्षाभितापो नागानां पर्वतानां शिलारुजः ।
अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि ॥ २९७॥
स्वौरकः सौरभेयाणामूषरः पृथिवीतले ।
इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥ २९८॥
रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम् ।
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः ॥ २९९॥
अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् ।
शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः ।
शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते ॥ ३००॥
मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः ।
मरणे जन्मनि तथा मध्ये च विशते सदा ॥ ३०१॥
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः ।
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ३०२॥
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः ।
विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान् ॥ ३०३॥
दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः शृणोति वा ।
नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात् ॥ ३०४॥
यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः ।
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ॥ ३०५॥
यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः ।
स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ३०६॥
व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः ।
राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ३०७॥
अनेन चैव देहेन गणानां स गणाधिपः ।
इह लोके सुखं प्राप्य गण एवोपपद्यते ॥ ३०८॥
न च यक्षाः पिशाचा वा न नागा न विनायकाः ।
कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ३०९॥
शृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी ।
पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ॥ ३१०॥
शृणुयाद्वा इदं सर्वं कीर्त्तयेद्वाप्यभीक्ष्णशः ।
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ३११॥
मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् ।
सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ॥ ३१२॥
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु ।
बलिं विभवतः कृत्वा दमेन नियमेन च ॥ ३१३॥
ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् ।
ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः ।
मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ॥ ३१४॥
सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः ।
पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते ।
मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ॥ ३१५॥
वृषेव विधियुक्तेन विमानेन विराजते ।
आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ३१६॥
इत्याह भगवान् व्यासः पराशरसुतः प्रभुः ।
नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित् ॥ ३१७॥
श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः ।
वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ३१८॥
श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु ।
रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ३१९॥
इति श्रीवायुमहापुराणे वायुप्रोक्ते दक्षशापवर्णनं नाम त्रिंशोऽध्यायः ॥ ३०॥
वायुपुराण । अध्याय ३०/१८०-३१९॥