पात्रासादनम् -
अग्निस्थापना विधि
तत्त्वा यामीति मन्त्रं पठित्वा यावद्भिः पदार्थैः प्रयोजनं भवति तावतः पदार्थान् द्वन्द्वशः
प्राक्संस्थानुदगग्रानग्नेरुत्तरतः पश्चाद्वाSSसादयेत्-
ॐ तत्त्वा यामि ब्ब्रहमणा व्वन्दमानस्तदाशास्ते यजमानो हविर्ब्भिः। अहेडमानो वरुणेह बोध्यरुश&समानSआयुः प्रमोषीः ॥
त्र्यम्बकमिति पवित्रच्छेदनार्थानि प्रादेशपरिमितानि कुशतरुणानि दृढानि स्थापयेत् -
ॐ त्र्यम्बकं वजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्॥
ॐ पवित्त्रेस्थो वैष्णव्यौ सवितुर्व्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्त्रेण सूर्व्यस्य रश्मिभिः ।
देवीरापोऽअग्ग्रेगुवोऽअग्ग्रेपुवोग्ग्रऽइममद्य यज्ञन्नयताग्ग्रे यज्ञपति&सुधातुं यज्ञपतिन्देवयुवम्॥
इमम्मे वरुण इति वारणं द्वादशाङ्गुलदीर्घं करतलसम्मितखातं पद्मपत्राकृतिं कमलमुकुलाकृतिं
वा प्रोक्षणीपात्रम् (न्युब्जम्) -
ॐ इमम्मे वरुण श्रुधी हवमद्या च मृडय। त्वामवस्युराचके॥
घृतवतीति तैजसी मृन्मयी वा द्वादशाङ्गुलविस्तृता प्रादेशोच्चा आज्यस्थाली (न्युब्जम्)
ॐ घृतवती भुवनानामभिश्रियोर्वीं पृथ्वी मधुदुघे सुपेशसा। द्यावापृथिवी वरुणस्य धर्म्मणा
विष्कभिते अजरे भूरिरेतसा।।
अन्नपतेऽन्नस्येति तादृश्येव चरुस्थाली (न्युब्जम्) -
ॐ अन्नपतेऽन्नस्यनो देह्षनमीवस्य शुष्मिणः। प्रप्रदातारन्तारिषऊर्जन्नो धेहि द्विपदे चतुष्पदे॥
ततः शादन्दद्भिरिति सम्मार्जनकुशास्त्रिप्रभृतयः -
उत्सादमवक्रन्देन तालु वाजछहनुभ्यामपSआस्येन व्वृषणमाण्डाभ्यामादित्याँ२ श्मश्रुभिः पन्थानं
भ्रूब्भ्यान्द्यावापृथिवी व्वर्तोभ्याँ विद्युतङ्कनीनकाभ्या(शुक्लाय स्वाहा कृष्णाय स्वाहा पार्व्याणि
पक्ष्माण्यवार्य्याsइक्क्षवोऽवार्ष्याणि पक्ष्माणि पार्व्याऽइक्क्षवः ।
उपयामगृहीतोऽसीति उपयमनकुशांस्त्रयोदश -
ॐ उपयामगृहीतोऽस्यन्तर्षच्छ मघवन्पाहि सोमम्। उरुष्य रायऽएषो यजस्व॥
समिधाग्निमिति समिधस्तिसः पालाश्यः प्रादेशमात्र्यः पृथक् स्थापयेत् -
ॐ समिधाग्निन्दुवस्यत घृतैर्बोधयतातिथिम्। आस्मिन्हव्या जुहोतन॥
स्रुवः खादिरो हस्तमात्रोऽङगुष्ठपर्वमात्रखातः परिणाहवर्तुलपुष्करः (न्युब्जः)।
गव्यम् आज्यम्। चरुश्चेत् त्रिप्रक्षालिता ब्रीहितण्डुलाः ।
पूर्णपात्रम्- षट्पञ्चाशदधिकद्विशत(२५६)मुष्टिपरिमितं परार्ध्यम्, बहुभोक्तृपुरुषाहारपर्यन्तम्
अपराध्यं वा तण्डुलाद्यन्नम्। अन्यानि चोपयुक्तानि वस्तून्यासाद्य,
पवित्रनिर्माणम्- आसादिते द्वे कुशतरुणे गृहीत्वा अग्रतः प्रादेशमात्रं परिमाय तयोरुपरि आसादितानि
त्रीणि कुशतरुणानि तिर्यङ् निधाय पवित्रमूलेन पवित्रे प्रदक्षिणक्रमेणावेष्ट्य त्रयाणां मूलाग्राणि
द्वयोर्मूलं च दक्षिणहस्तेन, पवित्रे च वामहस्तेन गृहीत्वा 'पवित्रे स्थः' इति मन्त्रेण प्रच्छिद्य द्वयोर्मूलं
त्रीणि चोत्तरतः क्षिपेत्।
देवस्य त्वेति द्वे पवित्रे प्रणीतापात्रे निदध्यात् -
ॐ देवस्यत्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताब्भ्याम्। अग्नये जुष्टङ्गृहाम्यग्नीषोमाब्भ्यां
जुष्टङ्गृहामि॥
ततः प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकमासिच्य
पवित्राभ्यामुत्पूय पवित्रे प्रोक्षणीषु निधाय दक्षिणहस्तेन प्रोक्षणीपात्रमुत्थाप्य सव्ये कृत्वा तदुदकं
दक्षिणहस्तस्य अनामिकाङ्गुष्ठाभ्यां त्रिरूध्वं क्षिप्त्वा प्रोक्षणीभिरद्भिरासादनक्रमेणैकैकशः प्रोक्ष्य
असञ्चरे (प्रणीताग्न्योरन्तराले) प्रोक्षणीपात्रं निदध्यात्।
घृताच्यसीति आज्यस्थाल्यामासादितमाज्यं चरूँश्च प्रणीतोदकमासिच्य चरुस्थाल्यां निदध्यात् -
ॐ घृताच्यसि जुहूर्नाम्ना सेदं प्रियेण धाम्ना प्रिय सदSआसीद घृताच्यस्युपभृन्नाम्ना सेदं
प्रियेण धाम्ना प्रिय8 सदSआसीद घृताच्यसि धुवानाम्ना सेदं प्रियेण धाम्ना प्रिय8सदSआसीद।
ध्रुवाSअसदन्नृतस्य योनौ ता व्विष्णो पाहि यज्ञं पाहि मां यज्ञन्न्यम्॥
ततो ब्रह्मा आज्यं चरुञ्च युगपदग्नावारोप्य ब्रह्माभावे स्वयं यजमानो वा ज्वलदुल्मुकमादाय
धृष्टिरसीति मन्त्रेणाSSज्यचर्वोः समन्ताद्भ्रामयित्वा अग्नौ क्षिपेत् -
ॐ धृष्टिरस्यपाग्नेअग्निमामादञ्जहि निष्क्रव्यादसेधा देवयजँ वह। धुवमसि पृथिवीन्दूर्वह
ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य व्वधाय॥