KaryaVidhan

श्रीमद्भागवतमहापूराणम् दशमस्कन्ध उत्तरार्ध

Page 23 of 23

चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥ ४५॥

शय्यासनाटनालापक्रीडास्नानादिकर्मसु ।
न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ४६॥

तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वः सरित्पादशौचं
विद्विट् स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः ।
यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः
कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ४७॥

जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ४८॥

इत्थं परस्य निजवर्त्मरिरक्षयाऽऽत्त-
लीलातनोस्तदनुरूपविडम्बनानि ।
कर्माणि कर्मकषणानि यदूत्तमस्य
श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ४९॥

मर्त्यस्तयानुसवमेधितया मुकुन्द-
श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।
तद्धाम दुस्तरकृतान्तजवापवर्गं
ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥ ५०॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादश-
साहस्र्यां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे
श्रीकृष्णचरितानुवर्णनं नाम नवतितमोऽध्यायः ॥ ९०॥

॥ इति दशमस्कन्धोत्तरार्धः समाप्तः ॥
॥ ॐ तत्सत् ॥

अघिल्लो