अथ पञ्चमोऽध्यायः
रूद्रीपाठ
(रुद्रसूक्तम् / नीलसूक्तम् ।)
हरिः॑ ॐ
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ ।
बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ १॥
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ॥ २॥
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे ।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ꣳसीः॒ पुरु॑षं॒ जग॑त् ॥ ३॥
शि॒वेन॒ वच॑सा त्वा गिरि॒शाऽच्छा॑वदामसि ।
यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ ४॥
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ꣳश्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राचीः॒ परा॑सुव ॥ ५॥
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ ।
ये चै॑नꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ हेड॑ ईमहे ॥ ६॥
असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ॥ ७॥
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑ ॥ ८॥
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ॥ ९॥
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ ॥ उ॒त ।
अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ॥ १०॥
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒स्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ॥ ११॥
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥ १२॥
अ॒व॒तत्य॒ धनु॒ष्ट्वꣳ सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥ १३॥
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥ १४॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत॑ मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ॥ १५॥
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ॥ १६॥
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒
नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒
नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ॥ १७॥
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒
नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒
नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒
नमः॑ सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नमः॑ ॥ १८॥
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒
नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒
नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒
नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमः॑ ॥ १९॥
नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒
नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒
नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒
नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमः॑ ॥ २०॥
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒
नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒
नमः॑ सृका॒यिभ्यो॒ जिघा॑ꣳसद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒
नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ॥ २१॥
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒
नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒
नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒
नम॑ आ॒यच्छ॒द्भ्योऽस्य॑द्भ्यश्च वो॒ नमः॑ ॥ २२॥
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒
नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒
नमः॒ शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒
नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ॥ २३॥
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒
नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒
नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒
नम॒ उग॑णाभ्यस्तृꣳह॒तीभ्य॑श्च वो॒ नमः॑ ॥ २४॥
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒
नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒
नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒
नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ॥ २५॥
नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒
नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒
नमः॑ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒
नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नमः॑ ॥ २६॥
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒
नमः॒ कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒
नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒
नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ॥ २७॥
नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒
नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒
नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ॥ २८॥
नमः॑ कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒
नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒
नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒
नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ॥ २९॥
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒
नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒
नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒
नमोऽग्र्या॑य च प्रथ॒माय॑ च ॥ ३०॥
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒
नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒
नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ॥ ३१॥
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒
नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒
नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒
नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ॥ ३२॥
नमः॒ सोभ्या॑य च प्रतिस॒र्या॒य च॒
नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒
नमः॒ श्लोक्या॑य चावसा॒न्या॒य च॒
नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ॥ ३३॥
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒
नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒
नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒
नमः॒ शूरा॑य चावभे॒दिने॑ च ॥ ३४॥
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒
नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒
नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ॥ ३५॥
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒
नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒
नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ॥ ३६॥
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒
नमः॒ काट्या॑य च॒ नीप्या॑य च॒
नमः॒ कुल्या॑य च सर॒स्या॒य च॒
नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ॥ ३७॥
नमः॒ कूप्या॑य चाव॒ट्या॑य च॒
नमो॒ वीध्र्या॑य चात॒प्या॒य च॒
नमो॒ मेघ्या॑य च विद्यु॒त्या॒य च॒
नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ॥ ३८॥
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒
नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒
नमः॒ सोमा॑य च रु॒द्राय॑ च॒
नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ॥ ३९॥
नमः॑ श॒ङ्गवे॑ च पशु॒पत॑ये च॒
नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒
नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒
नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ॥ ४०॥
नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒
नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒
नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ ४१॥
नमः॒ पार्या॑य चावा॒र्या॒य च॒
नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒
नमः॒ शष्प्या॑य च॒ फेन्या॑य च ॥ ४२॥
नमः॑ सिक॒त्या॒य च प्रवा॒ह्या॒य च॒
नमः॑ किꣳशि॒लाय॑ च क्षय॒णाय॑ च॒
नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒
नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ॥ ४३॥
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒
नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒
नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒
नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च ॥ ४४॥
नमः॒ शुष्क्या॑य च हरि॒त्या॒य च॒
नमः॑ पाꣳस॒व्या॒य च रज॒स्या॒य च॒
नमो॒ लोप्या॑य चोल॒प्या॒य च॒
नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ॥ ४५॥
नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒
नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒
नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒
नमः॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ हृद॑येभ्यो॒ नमो॑
विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ॥ ४६॥
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्रं॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रोङ्भो च॑ नः॒ किञ्च॒नाम॑मत् ॥ ४७॥
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥ ४८॥
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी ।
शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ॥ ४९॥
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ॥ ५०॥
मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥ ५१॥
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्र॑ꣳ हे॒तयो॒ऽन्यम॒स्मन्निव॑पन्तु॒ ताः ॥ ५२॥
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑ ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ ५३॥
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५४॥
अ॒स्मिन्म॑ह॒त्य॒र्ण॒वेऽन्तरि॑क्षे भ॒वा अधि॑ ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५५॥
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ꣳ रु॒द्रा उप॑श्रिताः ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५६॥
नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑माच॒राः ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५७॥
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५८॥
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ५९॥
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युधः॑ ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ६०॥
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑ ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ६१॥
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ६२॥
य ए॒ताव॑न्तश्च॒ भूया॑ꣳसश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ ६३॥
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वस्तेभ्यो॒
दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒
नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ ६४॥
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वस्तेभ्यो॒
दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒
नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ ६५॥
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वस्तेभ्यो॒
दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒
नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ ६६॥
इति रुद्रे पञ्चमोऽध्यायः ॥ ५॥
96