श्रीमहाकालशनिमृत्युञ्जयस्तोत्रम्
णुयाद्वापि ध्यात्त्वा सम्पूज्य भक्तितः ।
तस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये !॥ ८८॥
ज्वराः सर्वे विनश्यन्ति दद्रु-विस्फोटकच्छुकाः ।
दिवा सौरिं स्मरेत् रात्रौ महाकालं यजन् पठेत ॥ ८९॥
जन्मर्क्षे च यदा सौरिर्जपेदेतत्सहस्रकम् ।
वेधगे वामवेधे वा जपेदर्द्धसहस्रकम् ॥ ९०॥
द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा ।
तत्तद्राशौ भवेद्यावत् पठेत्तावद्दिनावधि ॥ ९१॥
चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥ ९२॥
गुरुलाघवज्ञानेन पठेदावृत्तिसङ्ख्यया ।
शतमेकं त्रयं वाथ शतयुग्मं कदाचन ॥ ९३॥
आपदस्तस्य नश्यन्ति पापानि च जयं भवेत् ।
महाकालालये पीठे ह्यथवा जलसन्निधौ ॥ ९४॥
पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥ ९५॥
श्रोतव्यं पठितव्यं च साधकानां सुखावहम् ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम् ॥ ९६॥
कालक्रमेण कथितं न्यासक्रम समन्वितम् ।
प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ॥ ९७॥
पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम् ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ॥ ९८॥
नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत् ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ॥ ९९॥
नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत् ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम् ॥ १००॥
तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ।
कथनीयं महादेवि ! नैवाभक्तस्य कस्यचित् ॥ १०१॥
॥ इति मार्तण्डभैरवतन्त्रे महाकालशनिमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥