अग्नेः संस्कारः स्थापनञ्च
अग्निस्थापना विधि
अग्नेः संस्कारः स्थापनञ्च -
कांस्यपात्रे निहितं कांस्यपात्रेणैव पिहितमग्निं स्थण्डिलादाग्नेयभागे निधाय क्रव्यादांशं
नैर्ऋत्यदिशि क्षिपेत् - ॐ क्रव्यादाय नमः। ततः स्थण्डिलेग्निं पश्चादानीय,
अग्नावग्निरित्यग्निं शोधयेत् -
ॐ अग्नावग्निश्चरति प्रविष्टSऋषीणां पुत्रोऽअभि शस्तिपावा। स नः स्योनः सुयजा बजेह
देवेभ्यो हव्य&सदमप्रयुच्छन्त्स्वाहा॥
मयि गृह्णामीति कांस्यपात्रे निहितं तेनैव पिहितमग्निं गृह्णाति -
ॐ मयि गृहणाम्यग्ग्रेऽअग्नि&रायस्पोषाय सुप्रजास्त्वाय सुवीर््याय। मामु देवताः सचन्ताम्॥
गब्भोऽअस्योषधीनामिति गर्भाधानम् -
ॐ गब्भोऽअस्योषधीनां गब्भो व्वनस्पतीनाम्। गर्ब्भो व्विश्वस्यभूतस्याग्ने गब्भोऽअपामसि॥
इत्यस्याग्नेर्गर्भाधानं करोमि।
विवस्वन्नादित्य इति पुंसवनम् -
ॐ व्विवस्वन्नादित्यैषते सोमपीथस्तस्मिन्मत्स्व। श्रदस्मै नरो व्वचसे दधातन यदाशीर्दा दम्पती व्वाममश्नुतः। पुमान्पुत्रो जायते व्विन्दते व्वस्वधा व्विश्वाहारपऽएधते गृहे॥
इत्यस्याग्नेः पुंसवनं करोमि।
अजीजनोहीति सीमन्तोन्नयनम् -
ॐ अजीजनो हि पवमानसूर्यं व्विधारे शक्मना पयः। गोजीरयार गूँ हमाणः पुरन्ध्या॥
इत्यस्याग्नेः सीमन्तोन्नयनं करोमि।
एजतु दशमास्य इति जातकर्म -
ॐ एजतु दशमास्यो गर्ब्भो जरायुणा सह। यथायँ व्वायुरेजति यथा समुद्रएजति।
एवायन्दशमास्योऽअस्रज्जरायुणा सह॥
इत्यस्याग्नेर्जातकर्म करोमि।
(अत्र पिहितकांस्यपात्रस्योद्घाटनम्)
यदा पिपेषेति नामकरणम् -
ॐ यदा पिपेष मातरम्पुत्रः प्रमुदितो धयन्। एतत्तदग्नेऽअनृणो भवाम्यहतौ पितरौ मया।
सम्पृचस्थ सम्मा भद्रेण पृङ्क्त विपृचस्थ व्विमा पाप्मना पृङ्क्त॥
इत्यस्याग्नेर्नामकरणं करोमि।
पूषा पञ्चाक्षरेणेति निष्क्रमणम् -
ॐ पूषा पञ्चावक्षरेण पञ्चदिशSउदजयत्ताउज्जेष&सविता षडक्क्षरेण षड्तूनुदजयत्तानुज्जेषं मरुतः
सप्ताक्क्षरेण सप्तग्राम्यान् पशूनुदजयँस्तानुज्जेषं बृहस्पतिरष्टावक्षरेण गायत्रीमुदजयत्तामुज्जेषम्मित्रो
नवाक्क्षरेण ।।
इत्यस्याग्नेर्निष्क्रमणं करोमि।
अन्नपतेऽन्नस्येति अन्नप्राशनम् -
ॐ अन्नपतेऽन्नस्यनो देह्यनमीवस्य शुष्मिणः। प्रप्रदातारन्तारिषऽऊर्जन्नो धेहि द्विपदे चतुष्पदे।
इत्यस्याग्नेरन्नप्राशनं करोमि।
अग्नऽआयाहीति चूडाकरणम् -
ॐ अग्नऽआयाहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि।
इत्यस्याग्नेश्चूडाकरणं करोमि।
भद्रङ्गर्णेभिरिति कर्णवेधः -
ॐ भद्रङ््ण्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभिर्व्यशेमहि देवहितं यदायुः॥
इत्यस्याग्नेः कर्णवेधं करोमि।
अग्निरेकाक्षरेणेति उपनयनम् -
ॐ अग्निरेकाक्षरेण प्राणमुदजयत्तामुज्जेषमश्विनौ दयक्क्षरेण द्विपदो मनुष्यानुदजयत्ता-
नुज्जेषँ व्विष्णुस्त्र्यक्षरेण त्रींल्लोकानुदजयत्तानुज्जेष&सोमश्चतुरक्षरेण चतुष्पदः पशूनुदजयत्ता-
नुज्जेषम्पूषापञ्चाक्षरेण ।।
इत्यस्याग्नेरुपनयनं करोमि।
ततो सव्याहृतिकां गायत्रीं श्रावयेत् -
ॐ भूर्भुवः स्वः व्वैश्वानराय विद्महे सप्तजिह्वाय धीमहि। तन्नो Sअग्निः प्रचोदयात्॥
इत्यग्निं गायत्रीं श्रावयामि।
व्रतङ्कृणुतेति समावर्तनम् -
ॐ व्वतङ्कृणुत व्वतङ्कृणुताग्निर्ब्रहमाग्निर्यज्ञो व्वनस्पतिर्यज्ञियः। दैवीन्धियं मनामहे
सुमृडीकामभिष्टये वर्चोधां यज्ञवाहस8सुतीर्थानो 5 असद्वशे। ये देवा मनो जाता मनो
युजो दक्षक्रतवस्तेनोऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥
इत्यस्याग्नेः समावर्तनं करोमि।
गावऽउपावतेति गोदानकर्म -
ॐ गावऽउपावतावतं मही वज्ञस्य रप्सुदा। उभा कर्ण्णा हिरण्यया।
इत्यस्याग्नेर्गोदानकर्म करोमि।
भगऽएवेति विवाह: -
ॐ भगऽएव भगवाँ S अस्तु देवास्तेन व्वयं भगवन्तः स्याम। तन्त्वा भग सर्व्वऽइज्जोहवीति
सनो भग पुरएता भवेह॥
इत्यस्याग्नेविवाहं करोमि।
तत ऋतावानमित्यादि कण्डिकात्रयं पठेत् -
ॐ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम्। अजस घर्म्ममीमहे। उपयामगृहीतोऽसि
व्वैश्वानराय त्वैषते योनिव्वैश्वानरायत्वा॥
ॐ व्वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभि श्रीः। इतो जातो व्विश्वमिदं व्विचष्टे
व्वैश्वानरो यतते सूर््येण। उपयामगृहीतोऽसि व्वैश्वानराय त्वैषते योनिव्वैश्वानरायत्वा ॥ ॐ व्वैश्वानरो नऊतयऽआप्रयातु परावतः। अग्निरुक्थेन वाहसा। उपयामगृहीतोऽसि
व्वैश्वानराय त्वैषते योनिवैश्वानरायत्वा॥
अग्निम्मूर्धेति कुण्डे स्वाभिमुखं वहिं प्रवेशयेत् -
ॐ अग्निर्म्मूर्धा दिवः ककुत्पतिः पृथिव्याऽअयम्। अपाधरेतासि जिन्वति॥
इति कुण्डे स्थण्डिले वा अग्निं स्थापयेत्।
स्थिरो भवेति प्रज्वालयेत् -
ॐ स्थिरो भव व्वीड्वक्कआशुर्भव व्वाज्यर्वन्। पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः॥
ततोऽग्नि प्रार्थयेत् -
ॐ आवाहये त्वां पुरुषं महान्तं सुरासुरैर्वन्दितपादपद्मम्।
ब्रह्मादयो यस्य मुखे वसन्ति विशस्व कुण्डे सुरलोकनाथ।
ततोऽग्नेर्दक्षिणतस्त्रिभिर्दभैर्ब्रिह्मासनमास्तीर्य४ हिरण्यगर्ब्भ इति मन्त्रेण
पञ्चाशद्भिः
ॐ हिरण्यगर्ब्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽआसीत्। सदाधार पृथिवीन्द्मामुतेमान्तस्मै देवाय हविषा विधेम।
आब्रह्मन्निति ब्रह्माणमग्निप्रदक्षिणं कारयित्वा "अस्मिन् कर्मणि त्वं मे ब्रहमा भव" इत्युक्त्वा
उदडमुखमुपवेशयेत्-
ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूरइषव्योतिव्याधी महारथो
जायतान्दोग्धी धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य
व्वीरो जायतान्निकामे निकामे नः पर्जन्यो व्वर्षतु फलवत्यो नऽओषधयः पच्यन्ताँ योगक्षेमो नः
कल्पताम्॥
यस्य कुर्म्म इति होतुरासनम् -
ॐ वस्य कुर्म्मो गृहे हविस्तमग्ने व्वर्द्धया त्वम्। तस्मै देवाऽअधिब्रुवन्नयञ्च ब्ब्रहमणस्पतिः॥
अग्ने प्रेहीति अग्नेरुत्तरतो यजमानासनम्-
ॐ अग्ने प्रेहि प्रथमो देवयताञ्चक्षुर्दवानामुत मर्त्यानाम्। इयक्षमाणा भृगुभिः सजोषाः स्वर्षन्तु
यजमाना: स्वस्ति॥
परीत्य भूतानीति अग्नेरुत्तरतो वायव्ये च प्रणीतार्थे आसनद्वयं कल्पयित्वा
प्रणीताग्न्योर्मध्ये प्रोक्षण्यासनं च निदध्यात् -
ॐ परीत्य भूतानि परीत्य लोकान्परीत्य सर्वाः प्रदिशो दिशश्च। उपस्थाय
प्रथमजामृतस्यात्मनात्मानमभिसँविवेश ॥
इन्द्रSआसामिति वारणं (तच्च दण्डेन सह द्वादशाङ्गुलदीर्घं चतुरङ्गुलविस्तारं चतुरङ्गुलखातं) प्रणीतापात्रं वामहस्तेनादाय -
ॐ इन्द्रS आसान्नेता बृहस्पतिर्दक्षिणा यज्ञः पुरSएतु सोमः। देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो वन्त्वग्रम्॥
उदुत्तममिति दक्षिणहस्तेनोदकं सम्पूर्य वायव्यासने विधाय दक्षिणानामिकयाSSलभ्य कुशैराच्छाद्य ब्रह्मणो मुखमवलोक्य प्रणीतापात्रं प्रणीतासने निदध्यात् -
ॐ उदुत्तमं व्वरुण पाशमस्मदबाधमं व्विमध्यमश्रथाय। अथा व्वयमादित्यव्व्रते
तवानागसोऽअदितये स्याम ॥
ये ते शतमिति बहिर्मुष्टिमादाय ईशानादिप्रागग्रैर्बहिर्भिरुदक्संस्थमग्नेः परिस्तरणं कुर्यात् -
ॐ ये ते शतं व्वरुणं ये सहसं यज्ञियाः पाशा वितता महान्तः। तेभिनोऽअद्य सवितोत
विष्णुर्व्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा॥