भैरवस्ताेत्रम्

संस्कृत

आपदुद्धारकबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

Book Content

(रुद्रयामलेतन्त्रेविश्वसारोद्धारे) अथ मूलनामावलीपाठः - ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ॥ १॥ श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः । रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २॥ कङ्कालः कालशमनः कलाकाष्ठातनुः कविः । त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ३॥ शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः । अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ४॥ धनदोऽधनहारी च धनवान् प्रतिभानवान् । नागहारो नागपाशो व्योमकेशः कपालभृत् ॥ ५॥ कालः कपालमाली च कमनीयः कलानिधिः । त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपः ॥ ६॥ त्रिनेत्रतनयो डिम्भशान्तः शान्तजनप्रियः । बटुको बहुवेषश्च खट्वाङ्गवरधारकः ॥ ७॥ भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः । धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ ८॥ प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः । अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ९॥ अष्टाधारः षडाधारः सर्पयुक्त शिखीसखः । भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ॥ १०॥ कङ्कालधारी मण्डी च आन्त्रयज्ञोपवीतवान् । जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ११॥ शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डभूषितः । बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ १२॥ सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः । कामी कलानिधिकान्तः कामिनीवशकृद् वशी ॥ १३॥ जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः । सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव ह्रि ह्रीं ॐ ॥ १४ (सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः करोतु शम्) ॥ १४॥ फलश्रुतिपाठः - (शिवपार्वतीसंवादे) अष्टोत्तरशतं नाम्ना भैरवस्य महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् । न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥ न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् । न शत्रुभ्यो भयं किञ्चित् प्राप्नुयान्मानवः क्वचित् ॥ पातकेभ्यो भयं नैव यः पठेत् स्तोत्रमुत्तमम् । मारीभये राजभये तथा चौराग्निजे भये ॥ औत्पातिके महाघोरे तथा दुःस्वप्नदर्शने । बन्धने च तथा घोरे पठेत् स्तोत्रमनुत्तमम् ॥ सर्व प्रशममायाति भयं भैरवकीर्तनात् । एकादशसहस्रन्तु पुरश्चरणमुच्यते ॥ यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः । स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥ षण्मासं भूमिकामस्तु जपित्वा प्राप्नुयान्महीम् । राजशत्रुविनाशार्थं पठेन्मासाष्टकं पुनः ॥ रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् । जपेन्मासत्रयं मर्त्यो राजान वशमानयेत् ॥ धनार्थी च सुतार्थी च दारार्थी चापि मानवः । पठेन्मासत्रयं देवि वारमेकं तथा निशि ॥ धनं पुत्रं तथा दारान् प्राप्नुयान्नात्र संशयः । रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् । भीतो भयात् प्रमुच्येत तत्तदापन्न आपदः ॥ निगडैश्चापि बद्धो यः कारागृहनिपातितः । श‍ृङ्खलाबन्धनं प्राप्तः पठेच्चैव दिवानिशम् ॥ यान् यान् समीहते कामाँस्ताँस्तानाप्नोति मानवः । अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥ सुकुलीनाय शान्ताय ऋजव दम्भवर्जिते(ने) । दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ॥ य इदं पठते नित्यं धनधान्यमवाप्नुयात् । ॥ इति श्रीरुद्रयामलेतन्त्रेविश्वसारोद्धारे श्रीमदापदुद्धारकबटुकभैरवस्तोत्रं सम्पूर्णम् ॥